विभक्ति:
विभक्ति: किमर्थम्?
संस्कृते निम्नबिन्दुनां कृते भिन्नाविभक्तिं योजयन्ति |
- कर्ता
- क्रिया
- अन्यवस्तु: / पदार्थ:
- परस्पर-सम्बन्ध:
- अव्ययेन सह योजनम्
विभक्ति: नाम किम्?
प्रातिपदिकेषु (नामपदेषु) योजिता: सुप्-प्रत्यया: विभक्ति: इति |
प्रातिपदिकम् + सुप्-प्रत्यया: (विभक्ति:) = अन्तिम-नामपदम् |
कति विभक्तय:
सप्त विभक्तय:
प्रथमा , द्वितीया , तृतीया , चतुर्थी , पञ्चमी , षष्ठी , सप्तमी
१. प्रथमा (कर्ता)
मराठीप्रत्यया: न सन्ति
कर्तृ-निर्देशे (कर्तरी-प्रयोगे)
**राम:** करोति, **बाल:** कन्दुकं खेलति , गङ्गानदी वहति
क्रिया-निर्देशे (कर्मणि-प्रयोगे)
रामेण **आम्र:** खाद्यते , मया *वृक्ष:* दृष्ट: , कथा कथितव्या, मया **व्यायाम:** क्रियते
वस्तु-निर्देशे
एष: राम: , **स: बाल:** , **गङ्गानदी**, **एतद् पर्णम्**
२. द्वितीया (कर्म)
मराठीप्रत्यया: ए.व.- स, ला, ते || ब.व.- स, ला, ना, ते
कर्म / क्रिया-निर्देशे (कर्तरी-प्रयोगे)
राम: *विहारं* करोति, बाल: *कन्दुकं* खेलति
प्रयोजक (णिजन्त) प्रयोगे
- द्रोणाचार्य: **पाण्डवान्** शिक्षयति
- कैकेयी **रामं** **वनम्** गमयति
द्विकर्मक प्रयोगे
गुरु: *शिष्यं* *धर्मं* बोधयति , अर्जुन: कृष्णं वृत्तं वदति
अव्ययेन सह
रामं विना , सर्व.. *नमस्कारान्* *कृष्णं प्रति* गच्छति
'गम्' (गत्यर्थक), याच् धातुभि: सह
राम: *गङ्गां* गच्छति , कृष्ण: द्वारकाम् आयाति
बालिका *माताम्* दुग्धं याचते
३. तृतीया (करण)
मराठीप्रत्यया: ए.व.- ने, हे, शी || ब.व.- ने, हे, इ, शी
कर्तृ-निर्देशे (कर्मणि-प्रयोगे)
**रामेण** आम्र: खाद्यते , **मया** वृक्ष: दृष्ट: , **द्रौपद्या** अन्नम् पाचितम्
प्रयोजक (णिजन्त) प्रयोगे
अहं **बालिकया** गीतं गापयामि
अव्ययेन सह
भीम: **नकुलेन** सह तरति , चाणक्य: **कृष्णेन** समं चतुर: [सार्धम्, साकम् , समम् , अलम्, किम्]
४. चतुर्थी (सम्प्रदानम्)
मराठीप्रत्यया: ए.व.- स, ला, ते || ब.व.- स, ला, ना, ते
कर्तृ-निर्देशे (दाने - यस्यै दातव्यं तस्य चतुर्थी)
अहं *रामाय* राज्यं दास्यामि
**आपणिकाय** धनं दातव्यम्
'रुच्', 'स्पृह्' धातुना सह
**गणेशाय** मोदका: रोचन्ते
**शुरेभ्य:** युद्धं रोचते
अहं **संस्कृताय** स्पृहयामि
'कल्प् / जा / भू ' धातुभि: सह
भक्ति: *ज्ञानाय* कल्पते (भक्त्या ज्ञानं लभते इति अर्थ: - अत्र किं कारणेन भक्ति: (प्रथमा) च यद् लभते / फलं तस्य चतुर्थी)
प्रभुत्वम् अविवेकाय भवति
'गम्' गत्यर्थक-धातुभि: सह
राम: *गङ्गायै* गच्छति , कृष्ण: नगर्यै आयाति
'क्रुध्', कुप् , प्रति + श्रु, कथ् गत्यर्थक-धातुभि: सह
जननी *पुत्राय* क्रुध्यति / कुप्यति
यम: *नचिकेतसे* वरत्रयं प्रतिशृणोति
पितामही बालकेभ्य: कथां कथयति
कृते / तुमुन् इत्यस्य निर्देशे
बाला: **पठनाय** (पठनस्य कृते ) गुरुगृहं गच्छन्ति
अहं **सस्येभ्य:** (सस्यानि वर्धयितुं) श्रमं करोमि
अव्ययेन सह
विष्णवे नमः , शिवाय नमः [स्वस्ति , स्वाहा , स्वधा , सुखम् , हितम् ...]
५. पञ्चमी (अपादानम्)
मराठीप्रत्यया: ए.व.उन, हुन
विशेष प्रायेण पञ्चमी विभक्त्या: स्थाने "त:" इति योजनं शक्यम् | यथा, गङ्गा हिमालयत: प्रभवति , पर्णं वृक्षत: पतति
येन पदेन कुत: वा कस्मात् इति प्रश्नस्य उत्तरं प्राप्नोति
पर्णं वृक्षात् पतति , अहं कार्यालयात् आगत:
आपणात् आनीतं , गङ्गा हिमालयात् प्रभवति
भय संबन्धे (यस्मात् भीति: / भयस्य कारणम्)
बाल: व्याघ्रात् बिभेति
तव परीक्षाया: भीति: नास्ति?, भीता बालिका
रक्षण संबन्धे (यस्मात् रक्षणं / त्राणं)
रक्ष्, पा, त्रै आदि धातुनां अपि: श्रीराम: **राक्षसेभ्य:** महर्षिगणं रक्षितवान्
वि + रम् धातुना सह
सज्जना: *सत्कार्यात्* न विरमन्ति
भिन्न, अन्य, इतर एतै: शब्दै: सह
राम: कृष्णात् भिन्न: न
धर्मात् अन्या गति: नास्ति
६. षष्ठी (अपादानम्)
मराठीप्रत्यया: ए.व.- चा, ची , चे || ब.व. - चे, च्या, ची
सम्बन्ध निर्देशार्थम् (द्वयो: पदार्थयो: सम्बन्ध:)
रामस्य दास:, वीणाया: वादनम् , रमाया: नृत्यं , द्रौपद्या: हासेन दुर्योधनस्य क्रोध: उत्पन्न:
लोकहितं मम / मया करणीयं , छात्राणां / छात्रै: अभ्यास: करणीय:
७. सप्तमी (अधिकरणम्)
मराठीप्रत्यया: ए.व.- त, इ, या || ब.व. - त, इ, या
स्थान-निर्देशार्थम् (येन पदेन कुत्र इति प्रश्नस्य उत्तरं प्राप्नोति)
अहं भारते वसामि
कुरुक्षेत्रे युद्धं अभवत्
अपवाद: गम् गत्यर्थक-धातुभि: सह- द्वितीया एव योजनीया (तत्र सप्तमी न)
काल-निर्देशार्थम् (येन पदेन कदा इति प्रश्नस्य उत्तरं प्राप्नोति)
अहं प्रात:काले आगमिष्यामि
**रविवासरे सार्ध-सप्तवादने** क्रीडास्पर्धा आसीत्
विषय
यस्मिन् पदार्थे तिरस्कार:, प्रीति: , विश्वास: इत्यादि भावा:, तस्य पदस्य सप्तमी
भरतस्य **रामे** प्रीति: अस्ति
मम चित्रकलायाम् आसक्ति: अस्ति
स्निह् , वि + तृ - तर् धातुभि: सह
माता पुत्रे स्निह्यति
अध्यापक: छात्रेषु पारितोषिकाणि वितरति
तुलना / निर्धारण (सप्तमी / षष्ठी)
**धनुर्धरेषु / धनुर्धराणां** अर्जुन: श्रेष्ठ:
नदीषु / नदीनां गङ्गा पवित्रा
काव्येषु / काव्यानां नाटकं रम्यम्
सतिसप्तमी
उदिते सूर्ये अन्धकार: नष्ट:
गते वसन्ते को काक: को पिक: