विभक्ति:

विभक्ति: किमर्थम्?

संस्कृते निम्नबिन्दुनां कृते भिन्नाविभक्तिं योजयन्ति |

- कर्ता
- क्रिया
- अन्यवस्तु: / पदार्थ:
- परस्पर-सम्बन्ध:
- अव्ययेन सह योजनम्

विभक्ति: नाम किम्?

प्रातिपदिकेषु (नामपदेषु) योजिता: सुप्-प्रत्यया: विभक्ति: इति |
प्रातिपदिकम् + सुप्-प्रत्यया: (विभक्ति:) = अन्तिम-नामपदम् |

कति विभक्तय:

सप्त विभक्तय:

प्रथमा , द्वितीया , तृतीया , चतुर्थी , पञ्चमी , षष्ठी , सप्तमी

१. प्रथमा (कर्ता)


मराठीप्रत्यया: न सन्ति

कर्तृ-निर्देशे (कर्तरी-प्रयोगे)

    **राम:** करोति, **बाल:** कन्दुकं खेलति , गङ्गानदी वहति

क्रिया-निर्देशे (कर्मणि-प्रयोगे)

    रामेण **आम्र:** खाद्यते , मया *वृक्ष:* दृष्ट: , कथा कथितव्या, मया **व्यायाम:** क्रियते

वस्तु-निर्देशे

  एष: राम: , **स: बाल:** , **गङ्गानदी**, **एतद् पर्णम्**

२. द्वितीया (कर्म)


मराठीप्रत्यया: ए.व.- स, ला, ते || ब.व.- स, ला, ना, ते

कर्म / क्रिया-निर्देशे (कर्तरी-प्रयोगे)

  राम: *विहारं* करोति, बाल: *कन्दुकं* खेलति

प्रयोजक (णिजन्त) प्रयोगे

- द्रोणाचार्य: **पाण्डवान्** शिक्षयति

- कैकेयी **रामं** **वनम्** गमयति

द्विकर्मक प्रयोगे

  गुरु: *शिष्यं* *धर्मं* बोधयति , अर्जुन: कृष्णं वृत्तं वदति

अव्ययेन सह

  रामं विना , सर्व.. *नमस्कारान्* *कृष्णं प्रति* गच्छति

'गम्' (गत्यर्थक), याच् धातुभि: सह

  राम: *गङ्गां* गच्छति , कृष्ण: द्वारकाम् आयाति

बालिका *माताम्* दुग्धं याचते 

३. तृतीया (करण)


मराठीप्रत्यया: ए.व.- ने, हे, शी || ब.व.- ने, हे, इ, शी

कर्तृ-निर्देशे (कर्मणि-प्रयोगे)

**रामेण** आम्र: खाद्यते , **मया** वृक्ष: दृष्ट: , **द्रौपद्या** अन्नम् पाचितम्

प्रयोजक (णिजन्त) प्रयोगे

अहं **बालिकया** गीतं गापयामि

अव्ययेन सह

भीम: **नकुलेन** सह तरति , चाणक्य: **कृष्णेन** समं चतुर: [सार्धम्, साकम् , समम् , अलम्, किम्]

४. चतुर्थी (सम्प्रदानम्)


मराठीप्रत्यया: ए.व.- स, ला, ते || ब.व.- स, ला, ना, ते

कर्तृ-निर्देशे (दाने - यस्यै दातव्यं तस्य चतुर्थी)

अहं *रामाय* राज्यं दास्यामि
**आपणिकाय** धनं दातव्यम्

'रुच्', 'स्पृह्' धातुना सह

**गणेशाय** मोदका: रोचन्ते
**शुरेभ्य:** युद्धं रोचते

अहं **संस्कृताय** स्पृहयामि 

'कल्प् / जा / भू ' धातुभि: सह

भक्ति: *ज्ञानाय* कल्पते  (भक्त्या ज्ञानं लभते इति अर्थ: - अत्र किं कारणेन भक्ति: (प्रथमा) च यद् लभते / फलं तस्य चतुर्थी)
प्रभुत्वम् अविवेकाय भवति

'गम्' गत्यर्थक-धातुभि: सह

राम: *गङ्गायै* गच्छति , कृष्ण: नगर्यै आयाति

'क्रुध्', कुप् , प्रति + श्रु, कथ् गत्यर्थक-धातुभि: सह

जननी *पुत्राय* क्रुध्यति / कुप्यति

यम: *नचिकेतसे* वरत्रयं प्रतिशृणोति

पितामही बालकेभ्य: कथां कथयति

कृते / तुमुन् इत्यस्य निर्देशे

बाला: **पठनाय** (पठनस्य कृते ) गुरुगृहं गच्छन्ति
अहं **सस्येभ्य:** (सस्यानि वर्धयितुं) श्रमं करोमि

अव्ययेन सह

विष्णवे नमः , शिवाय नमः [स्वस्ति , स्वाहा , स्वधा , सुखम् , हितम् ...]

५. पञ्चमी (अपादानम्)


मराठीप्रत्यया: ए.व.उन, हुन

विशेष प्रायेण पञ्चमी विभक्त्या: स्थाने "त:" इति योजनं शक्यम् | यथा, गङ्गा हिमालयत: प्रभवति , पर्णं वृक्षत: पतति

येन पदेन कुत: वा कस्मात् इति प्रश्नस्य उत्तरं प्राप्नोति

पर्णं वृक्षात् पतति , अहं कार्यालयात् आगत:
आपणात् आनीतं , गङ्गा हिमालयात् प्रभवति

भय संबन्धे (यस्मात् भीति: / भयस्य कारणम्)

बाल: व्याघ्रात् बिभेति
तव परीक्षाया: भीति: नास्ति?, भीता बालिका

रक्षण संबन्धे (यस्मात् रक्षणं / त्राणं)

रक्ष्, पा, त्रै आदि धातुनां अपि: श्रीराम: **राक्षसेभ्य:** महर्षिगणं रक्षितवान्

वि + रम् धातुना सह

सज्जना: *सत्कार्यात्* न विरमन्ति 

भिन्न, अन्य, इतर एतै: शब्दै: सह

राम: कृष्णात् भिन्न: न
धर्मात् अन्या गति: नास्ति

६. षष्ठी (अपादानम्)


मराठीप्रत्यया: ए.व.- चा, ची , चे || ब.व. - चे, च्या, ची

सम्बन्ध निर्देशार्थम् (द्वयो: पदार्थयो: सम्बन्ध:)

रामस्य दास:, वीणाया: वादनम् , रमाया: नृत्यं , द्रौपद्या: हासेन दुर्योधनस्य क्रोध: उत्पन्न:
लोकहितं मम / मया करणीयं , छात्राणां / छात्रै: अभ्यास: करणीय:

७. सप्तमी (अधिकरणम्)


मराठीप्रत्यया: ए.व.- त, इ, या || ब.व. - त, इ, या

स्थान-निर्देशार्थम् (येन पदेन कुत्र इति प्रश्नस्य उत्तरं प्राप्नोति)

अहं भारते वसामि
कुरुक्षेत्रे युद्धं अभवत्

अपवाद: गम् गत्यर्थक-धातुभि: सह- द्वितीया एव योजनीया (तत्र सप्तमी न)

काल-निर्देशार्थम् (येन पदेन कदा इति प्रश्नस्य उत्तरं प्राप्नोति)

अहं प्रात:काले आगमिष्यामि
**रविवासरे सार्ध-सप्तवादने** क्रीडास्पर्धा आसीत्

विषय

यस्मिन् पदार्थे तिरस्कार:, प्रीति: , विश्वास: इत्यादि भावा:, तस्य पदस्य सप्तमी

भरतस्य **रामे** प्रीति: अस्ति
मम चित्रकलायाम् आसक्ति: अस्ति

स्निह् , वि + तृ - तर् धातुभि: सह

माता पुत्रे स्निह्यति

अध्यापक: छात्रेषु पारितोषिकाणि वितरति 

तुलना / निर्धारण (सप्तमी / षष्ठी)

**धनुर्धरेषु / धनुर्धराणां** अर्जुन: श्रेष्ठ:
नदीषु / नदीनां गङ्गा पवित्रा
काव्येषु / काव्यानां नाटकं रम्यम्

सतिसप्तमी

उदिते सूर्ये अन्धकार: नष्ट:
गते वसन्ते को काक: को पिक: