सङ्ख्या
स्त्रोत: नीलेश बोडस सङ्ख्या
एक इत्यस्मात् नवदशन् ( १ -> १९ ) इति पर्यन्ता: शब्दा: विशेष्यनिघ्ना: त्रिषु लिङ्गेषु रूपाणि |
१ एक
नित्यम् एकवचने
- एक: देवदत्त:
- एका माता
- एकम् अक्षरम्
२ द्वि
नित्यम् द्विवचने
- द्वौ वृक्षौ
- द्वे शाले
- द्वे अक्षरे
३ त्रि , ४ चतुर्
- नित्यम् बहुवचने
- त्रय: कवय:
- तिस्र: माता:
- त्रीणि भूतानि
- चत्वार: दीपा:
- चतस्र: धेनव:
- चत्वारि वस्त्राणि
५ पञ्चन् इत्यस्मात् (१० दश .. १२ द्वादश .. १६ षोडश .. १८ अष्टादश) १९ नवदशन् इति पर्यन्ता: शब्दा:
- नित्यं बहुवचने
- त्रिषु लिङ्गेषु समानानि रूपाणि
- पञ्च प्राणा: षोडश संस्कारा:
- पञ्च नद्य: अष्टादश शाला:
- पञ्च महाभूतानि द्वादश नामानि
१९ एकोनविंशति , २० विंशति इत्यस्मात् ९९ नवनवति इति पर्यन्ता: शब्दा: नित्यं स्त्रीलिङ्गवाचिन: एकवचनान्त: च |
- एकोनविंशति: , विंशति: , चमसा:
- विंशति: बालिका:
- विंशति: पर्णानि
१० दश त: -> १०० शत
१० - दश
२० - विंशति:
३० - त्रिंशत्
४० - चत्वारिंशत्
५० - पञ्चाशत्
६० - षष्टि:
७० - सप्तति:
८० - अशीति:
९० - नवति:
१०० - शत: / शतम्
विभक्ति
नीलेशबोडस महोदयस्य सङ्केत स्थलम् दर्शनीयम् |
[सङ्केतस्थले दत्तांशपत्रम् १२ , १३]
सङ्ख्याशब्दैः सह 'प्रायेण' ( साधारण / approximately) इति योजनम्
अयं प्रयोग: उप वा आसन्न वा अदूर एतै: शब्दै: सह कर्तुं शक्यते |
उप / आसन्न / अदूर-दश - साधारण १० - approximately १०
विशेष: उपदश, अदूरदश, आसन्नविंश, अदूरनवत .... एते सर्वे उत्पन्ना: शब्दा:। तेषां पुंलिग 'देव' , स्त्री. माला , नपु. वन शब्दवत् रूपाणि भवन्ति, अत: अत्र सर्वदा योग्या विभक्ति: , वचनम्, लिङ्गम् योजनीयम् !!
उपदशाः वृक्षाः
आसन्नदशासु नदीषु
अदूरदशानां फलानाम्
१० त: १०० शत पर्यन्तम् रूपाणि
उपविंश, उपत्रिंश, उपचत्वारिंश, उपपञ्चाश, उपषष्ट, उपसप्तत, उपाशीत, उपनवत, उपशत
बृहती सङ्ख्या
१० - दश
१०० - शत: / शतम्
४०० - चतुश्शतम्
१००० - सहस्र: / सहस्रम्
१०,००० - अयुत: / अयुतम्
१,००,००० - लक्षा / लक्षम्
१०,००,००० - प्रयुत: / प्रयुतम्
-----
प्रयुत0 - कोटि:
प्रयुत00 - अर्बुदम्
प्रयुत000 - अब्जम्
संङ्ख्यालेखनस्य विशेषाः
नीलेशबोडस महोदयस्य सङ्केत स्थलम् दर्शनीयम् |
[सङ्केतस्थले दत्तांशपत्रम् ७ , ८]
५७२८ - पञ्चसहस्रं सप्तशतं अष्टाविंशति:
संङ्ख्याशब्दै: सह समास:
सामान्यत: संङ्ख्याशब्दै: सह (कर्मधारय) समास: न करणीय:, यत: तु पाणिने: सूत्रम् अस्ति | पञ्चवटी, सप्तर्षि इत्यादि सर्वे अपवादा: | लौकिकसंस्कृते एतेन प्रकारेण कृता: समासा: साधुत्वं न प्राप्नोति |
उदा.
XX असाधु - अहं विंशतिजनान् अपश्यम् |
साधु - अहं विंशतिम् जनान् अपश्यम् |
---
XX असाधु - दशबालै: पुस्तकं पठितं |
साधु - दशभि: बालै: पुस्तकं पठितं |
क्रम:
क्रमनिर्देशार्थं निम्नशब्दा: प्रयुज्यन्ते | एते सर्वे शब्दा: विशेषण-सदृशशब्दा:, अत: तेषां पुंलिग 'देव' , स्त्री. माला / नदी , नपु. वन शब्दवत् रूपाणि भवन्ति, अत्र सर्वदा योग्या विभक्ति: , वचनम्, लिङ्गम् योजनीयम् !! |
एकत: दशम पर्यन्तम् (१ त: १० )
पु.
स्त्री.
नपु.
एकादशत: विंशति: पर्यन्तम् (११ त: २० )
दशत: शत: पर्यन्तम् ( १०, २० ... १०० )
योजन-उदाहरणानि
- प्रथम: क्रमाङ्क: / प्रथमा विभक्ति: / प्रथमम् मित्रम्
- दशमस्य अङ्कस्य , विंशते: कवे: , षष्टितमाय पात्राय नमः
- अष्टम: शततम: पाठ: / अष्टमा अशीतितमा दिक् / अष्टमम् त्रिंशत्तमम् फलम्
आवृत्तिवाचका:
येन कतिवारं अस्य प्रश्नस्य उत्तरं लभ्यते स: आवृत्तिवाचक: |
आवृत्तिवाचकेन सह यदा कालवाचक: शब्द: प्रयुक्त: भवति तदा कालवाचकस्य षष्ठीविभक्ति: योजनीया |
दिनस्य द्विवारम्
संवतसरस्य सकृत्