सङ्ख्या

स्त्रोत: नीलेश बोडस सङ्ख्या

एक इत्यस्मात् नवदशन् ( १ -> १९ ) इति पर्यन्ता: शब्दा: विशेष्यनिघ्ना: त्रिषु लिङ्गेषु रूपाणि |

१ एक

नित्यम् एकवचने

  - एक: देवदत्त:
  - एका माता
  - एकम् अक्षरम्

२ द्वि

नित्यम् द्विवचने

  - द्वौ वृक्षौ
  - द्वे शाले
  - द्वे अक्षरे

३ त्रि , ४ चतुर्

  • नित्यम् बहुवचने
  - त्रय: कवय:
  - तिस्र: माता:
  - त्रीणि भूतानि

  - चत्वार: दीपा:
  - चतस्र: धेनव:
  - चत्वारि वस्त्राणि

५ पञ्चन् इत्यस्मात् (१० दश .. १२ द्वादश .. १६ षोडश .. १८ अष्टादश) १९ नवदशन् इति पर्यन्ता: शब्दा:

  • नित्यं बहुवचने
  • त्रिषु लिङ्गेषु समानानि रूपाणि
  - पञ्च प्राणा: षोडश संस्कारा:
  - पञ्च नद्य:  अष्टादश शाला:
  - पञ्च महाभूतानि  द्वादश नामानि

१९ एकोनविंशति , २० विंशति इत्यस्मात् ९९ नवनवति इति पर्यन्ता: शब्दा: नित्यं स्त्रीलिङ्गवाचिन: एकवचनान्त: च |

- एकोनविंशति: , विंशति: ,  चमसा:
- विंशति: बालिका:
- विंशति: पर्णानि

१० दश त: -> १०० शत

१० - दश
२० - विंशति:
३० - त्रिंशत्
४० - चत्वारिंशत्
५० - पञ्चाशत्
६० - षष्टि:
७० - सप्तति:
८० - अशीति:
९० - नवति:
१०० - शत: / शतम्

विभक्ति

नीलेशबोडस महोदयस्य सङ्केत स्थलम् दर्शनीयम् |

[सङ्केतस्थले दत्तांशपत्रम् १२ , १३]

सङ्ख्याशब्दैः सह 'प्रायेण' ( साधारण / approximately) इति योजनम्

अयं प्रयोग: उप वा आसन्न वा अदूर एतै: शब्दै: सह कर्तुं शक्यते |

उप / आसन्न / अदूर-दश  - साधारण १० - approximately १०

विशेष: उपदश, अदूरदश, आसन्नविंश, अदूरनवत .... एते सर्वे उत्पन्ना: शब्दा:। तेषां पुंलिग 'देव' , स्त्री. माला , नपु. वन शब्दवत् रूपाणि भवन्ति, अत: अत्र सर्वदा योग्या विभक्ति: , वचनम्, लिङ्गम् योजनीयम् !!

उपदशाः वृक्षाः
आसन्नदशासु नदीषु
अदूरदशानां फलानाम्

१० त: १०० शत पर्यन्तम् रूपाणि

उपविंश, उपत्रिंश, उपचत्वारिंश, उपपञ्चाश, उपषष्ट, उपसप्तत, उपाशीत, उपनवत, उपशत

बृहती सङ्ख्या

१० - दश
१०० - शत: / शतम्
४०० - चतुश्शतम्
१००० - सहस्र: / सहस्रम्
१०,००० - अयुत: / अयुतम्
१,००,००० - लक्षा / लक्षम्
१०,००,००० - प्रयुत: / प्रयुतम्
-----
प्रयुत0 - कोटि:
प्रयुत00 - अर्बुदम्
प्रयुत000 - अब्जम्

संङ्ख्यालेखनस्य विशेषाः

नीलेशबोडस महोदयस्य सङ्केत स्थलम् दर्शनीयम् |

[सङ्केतस्थले दत्तांशपत्रम् ७ , ८]

५७२८ - पञ्चसहस्रं सप्तशतं अष्टाविंशति:

संङ्ख्याशब्दै: सह समास:

सामान्यत: संङ्ख्याशब्दै: सह (कर्मधारय) समास: न करणीय:, यत: तु पाणिने: सूत्रम् अस्ति | पञ्चवटी, सप्तर्षि इत्यादि सर्वे अपवादा: | लौकिकसंस्कृते एतेन प्रकारेण कृता: समासा: साधुत्वं न प्राप्नोति |

उदा.
XX असाधु - अहं विंशतिजनान् अपश्यम् |
साधु - अहं विंशतिम् जनान् अपश्यम् |

---

XX असाधु - दशबालै: पुस्तकं पठितं |
साधु - दशभि: बालै: पुस्तकं पठितं |

क्रम:

क्रमनिर्देशार्थं निम्नशब्दा: प्रयुज्यन्ते | एते सर्वे शब्दा: विशेषण-सदृशशब्दा:, अत: तेषां पुंलिग 'देव' , स्त्री. माला / नदी , नपु. वन शब्दवत् रूपाणि भवन्ति, अत्र सर्वदा योग्या विभक्ति: , वचनम्, लिङ्गम् योजनीयम् !! |

एकत: दशम पर्यन्तम् (१ त: १० )

पु.

प्रथम: , द्वितीय: , तृतीय: , चतुर्थ: , पञ्चम: , षष्ठ: , सप्तम: , अष्टम: , नवम: , दशम:

स्त्री.

प्रथमा , द्वितीया , तृतीया , चतुर्थी , पञ्चमी , षष्ठी , सप्तमी , अष्टमी , नवमी , दशमी

नपु.

प्रथमम् , द्वितीयम् , तृतीयम् , चतुर्थम् , पञ्चमम् , षष्ठम् , सप्तमम् , अष्टमम् , नवमम् , दशमम्

एकादशत: विंशति: पर्यन्तम् (११ त: २० )

एकादशम , द्वादशम , त्रयोदशम , चतुर्दशम , पञ्चदशम , षोडशम , सप्तदशम , अष्टादशम , नवदशम , विंशतितम

दशत: शत: पर्यन्तम् ( १०, २० ... १०० )

दशम , विंशतितम , त्रिंशत्तम , चत्वारिंशत्तम , पञ्चाशत्तम , षष्टितम , सप्ततितम , अशीतितम , नवतितम , शततम

योजन-उदाहरणानि

- प्रथम: क्रमाङ्क: / प्रथमा विभक्ति: / प्रथमम् मित्रम्
- दशमस्य अङ्कस्य , विंशते: कवे: , षष्टितमाय पात्राय नमः
- अष्टम: शततम: पाठ: / अष्टमा अशीतितमा दिक् / अष्टमम् त्रिंशत्तमम् फलम्

आवृत्तिवाचका:

येन कतिवारं अस्य प्रश्नस्य उत्तरं लभ्यते स: आवृत्तिवाचक: |

एकवारम् / सकृत् , द्विवारम् , त्रिवारम् , चतुर्वारम् , पञ्चवारम् , ... , दशवारम्

आवृत्तिवाचकेन सह यदा कालवाचक: शब्द: प्रयुक्त: भवति तदा कालवाचकस्य षष्ठीविभक्ति: योजनीया |

दिनस्य द्विवारम्

संवतसरस्य सकृत्