संस्कृतम्

मङ्गल श्लोक:

येनाक्षरसमाम्नायम् अधिगम्य महेश्वरात् ।

कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः ॥

-- पतञ्जलिः

वि + आ + कृ + ल्युट् = व्याकरणम् व्याकरणम् = व्याक्रियन्ते शब्दा: येन (कर्त.: व्याकरोति शब्दान् येन) इति व्याकरणम्

नटराजराज

संस्कृते पदस्य भागद्वयं स्त:

पदम् = प्रकृति: + प्रत्यय:

पदम् द्विविधम्
	तिङ्न्तम् (तिङ् + अन्तम्) (क्रियापदम्) = धातु: (प्रकृति:) + तिङ् प्रत्यय:
	सुबन्तम् (सुप् + अन्तम्) (नामपदम्) = प्रातिपदिकम् (प्रकृति:) + सुप् (प्रत्यय:)

धातो: अथवा प्रातिपदिकस्य पृथक् रूपेण उपयोजनम् न शक्यम् , सर्वदा अन्तिमरूपम् (क्रियापदम् / नामपदम्) एव योजनीयम् |