ण त्वम्
न कारस्य ण कार: भवति तद् ण त्वम् इति उच्यते
कदा भवति
१. न कारात् पूर्वम् यदि रेफ: (र कार:) वा ऋ कार: वा षकार:
उदा.
- त**रन** => तरण
- पे**षन** => पेषण
- कर्नाटक => कर्णाटक
२. यदि रेफ: (र कार:) वा ऋ कार: वा षकार: एतस्मात् परं यदि निम्नगणत: एकम् व्यञ्जनम् अस्ति चेत् अपि ण त्वम् भवति |
ण त्व गण
- कवर्ग व्यञ्जनानि - [ख् ग् .. ङ्] वा
- पवर्ग व्यञ्जनानि - [ब् भ् .. म् ] वा
- ह् व् य् र् [एतेषु एकम्]
- (साहाय्याम्श: कप हवाय रे?)
उदा.
- क्र**यन** => क्रयण // क्र = रेफ: पश्चात् य = गणोपस्थित व्यञ्जनम् , अत: ण त्वम्
- क्षे**पन** => क्षेपण // क्षे = (क + ष) षकार: पश्चात् प = गणोपस्थित व्यञ्जनम् , अत: ण त्वम्
- रामा**नाम्** => रामाणाम् // रा = रेफ: पश्चात् म = गणोपस्थित व्यञ्जनम्
३. यदि रेफ: (र कार:) वा ऋ कार: वा षकार: - नकार: एतयो: मध्ये गणानुपस्थितम् अन्य किमपि व्यञ्जनम् अस्ति चेत् ण त्वम् न भवति |
उदा.
- ग्रथनम् => ग्रथनम् // ग्र = रेफ: , थ = उपरोक्त गणेषु न विद्यते , अत: ण त्वम् न |