उच्चार - विशेषा:
अनुस्वारस्य अथवा विसर्गस्य उच्चार: कथं करणीय:
अनुस्वार - उच्चार:
उत्तरपदस्य प्रथमाक्षरं अनुसृत्य उच्चारनिर्णय: करणीय:
**क** वर्गीय, क्ष => ङ् (वाङ्मय सदृश) इति उच्चार:
हर्षं कुरु = उत्तरपदे क इति प्रथमाक्षरं , अत: हर्षङ् ङ् (वाङ्मय सदृश) इति उच्चार:
हृषीकेशं गुडाकेश: = हृषीकेशङ् ङ् इति उच्चार:
**च** वर्गीय तथा य => पूर्वपद-अन्तिमाक्षर + ञे इति उच्चार:
मुखं च = प्रथमाक्षरं च अस्ति, अत: अत्र उच्चार: मुख + ञे (खै)
सशरं चापं = सशर + ञे (रै)
यौवनं जरा = यौवन + ञे (नै)
यं योगिनो = य + ञे (यै)
**त** वर्गीय => न् इति उच्चार:
शङ्खं दध्मौ = उत्तरपदस्य प्रथमाक्षरं द अस्ति, अत: अत्र उच्चार: न्
सुखं धीरं = सुखन् इति उच्चार:
**य वर्गीय (य विहाय र आरभ्य)** (... ह्, श्, ष्, स्) => पूर्वपद-अन्तिमाक्षर + औ इति उच्चार:
विजयं राजा = उत्तरपदप्रथमाक्षरं र, अत: विजयौ राजा
रथं स्थापय = उत्तरपदप्रथमाक्षरं स, अत: रथौ इत्यत्र
**ल** वर्ण-विशेष:
ह्येषां लुप्त = अत्र ह्येषाल् ल् इति उच्चार: // गीता १.४२
विसर्ग - उच्चार:
सर्वदा उत्तरपदस्य प्रथमाक्षरं अनुसृत्य उच्चारनिर्णय: करणीय:
**त** वर्ण-विशेष:
शिष्य: ते = शिष्यस् ते , स्
**स** वर्ण-विशेष:
भवन्त: सर्वे = उत्तरपदे स इति प्रथमाक्षरं , अत: भवन्तस् स् इति उच्चार: // उत्तरपद 'स' अक्षरनियम:
नकुल: सहदेव: = नकुलस् स् इति उच्चार:
**श** वर्ण-विशेष:
मातुला: श्वशुरा: = मातुलाश् उत्तरपदे 'श' इति प्रथमाक्षरं, अत: विसर्गस्य उच्चार: श्
पौत्रा: श्याला: = पौत्राश्
ह् - उच्चार: (ब्राह्मण वा ब्राम्हण)
स्त्रोत: Sanskrit Bhasha Bodha - Brahma pronunciation
यदा ह् वर्णस्य निम्नवर्णै: सह सन्धि: भवति, तदा उरसः (छातीतून) उच्चारणीयम् | लेखनसमये ह् आदौ लेखनीय:
ङ् , ञ् , ण् , न् , म्, य् , र् , ल् , व्
यदा संयुक्त रूपेण नास्ति तदा कण्ठत: उच्चारणीयम् |
उदा:
ब्राह्मण
पूर्वाह्ण , अपराह्ण // र् कार: अत: न => ण
प्रह्लाद , आह्लाद
वह्नि: (अग्नि:)
जिह्वा
वर्णमाला द्रष्टव्या