सन्धि:

स्त्रोत: Laghu Siddhanta Kaumudi Part 1 - Samjna and Sandhi

अन्य

  • वर्णानां एकत्रीकरणम् सन्धि: इति
  • यदि संहिता (वर्णयो: सामीप्यं) अस्ति, तर्हि सन्धि: शक्य: ( न आवश्यक: )
  • यत्र वर्ण-विकार: (परिवर्तनं) अस्ति, तत्र एव सन्धि: भवति |

उदा.

१. गृहम् + अस्ति = गृहमस्ति

अत्र म् कारे परिवर्तनं न अभवत्, अत: सन्धि: न 

२. गृहम् + गच्छ = गृहं गच्छ

अत्र म् कारम् परिवर्त्य अनुस्वार: अभवत्, अत: अत्र सन्धि:
  • सन्धि: इति वर्णकार्यं न तु पदकार्यम्

उदा. एकस्य पदस्य अन्त:

पौ + अक: = पावक:
कुरु + अन्ति = कुर्वन्ति 

उदा. भिन्नयो: पदयो: मध्ये

तौ + अत्र = तावत्र
मधु + अस्ति = मध्वस्ति
  • सन्धिकार्यम् इति अन्य: मुख्य: अंश: वर्णविकार: (परिवर्तनम्)

वर्णविकार: (परिवर्तनम्) त्रिविध:

  • आदेश: (वर्णस्य वा वर्णसमुदायस्य स्थाने अन्य: वर्ण: / वर्णसमुदाय:)
  • आगम: (स्थितानां वर्णानां मध्ये नूतनवर्णस्य वा वर्णसमुदायस्य योजनम्)
  • लोप: (विद्यमान-वर्णस्य वा वर्णसमुदायस्य निर्गम:)

संहिता श्लोक:

संहिता एकपदे नित्या, नित्या धातु-उपसर्गयो:|
नित्या समासे, वाक्ये तु सा विवक्षाम् अपेक्षते||

उदा.

  • राम (प्रातिपदिकम् ) + आत् (सुप् ) = रामात् // एकपदे सन्धि: नित्य:
  • उप + विशति = उपविशति // धातु-उपसर्गयो: सन्धि: नित्य:
  • गण + ईश: = गणेश: // समासे सन्धि: नित्य:

वाक्ये विवक्षा (विकल्प: अस्ति)

उदा.

  • राम: + गच्छति = रामो गच्छति

विसर्ग सन्धि:

स्त्रोत: नीलेश बोडस: युटु