क्रियापदम् ( तिङ्न्त:)

लकारा:

प्रथम: भाग: कालवाचका: (काल-निर्देशार्थम्)

द्वितीय: भाग: भाववाचका: (भाव-निर्देशार्थम्)

  • आज्ञा , प्रार्थना , इच्छा - लोट्, लिङ्
  • क्रियातिपत्ति - लृङ्
  • लेट् (केवलं वेदेषु)

bhav verbs

लोट्-लकार:

निम्न भावानां निर्देशाय अस्य लकार: प्रयुज्यते | अयं लकार: विधि-लिङ्-लकारेण समं प्रयोक्तुं शक्यते |

  • आज्ञा - स्थालिकां स्वच्छीकुरु !!
  • प्रश्न - (छात्रस्य प्रश्न:) अहं व्याकरणं पठानि वा?
  • प्रार्थना - (कृपया) देहि मे इदं पुस्तकम्
  • निमन्त्रणम् - (विकल्प: नास्ति)
  • आमन्त्रणम् - (विकल्प: अस्ति) श्व: मन्दिरं आगच्छ
  • पद्धति: - वनं एतेन मार्गेण गच्छ
  • आशीर्वाद: - यशस्वी भव !
  • हेतु - हेतुमद्भाव:, सम्भावना - एतयो: कृते अयं लकार: न योजनीय:

प्रत्यया:

पप.

  • तु ताम् अन्तु
  • 0 तम् त
  • आनि आव आम

आप.

  • ताम् इताम् अन्ताम्
  • स्व इथाम् ध्वम्
  • ऐ आवहै आमहै

लिङ्-लकार:

अत्र द्वौ प्रकारौ स्त: |

१. विधि - लिङ्-लकार:

निम्न भावानां निर्देशाय अस्य लकार: प्रयुज्यते | अयं लकार: लोट्-लकारेण समं प्रयोक्तुं शक्यते |

  • आज्ञा - स्थालिकां स्वच्छीकुर्याः !!
  • प्रश्न - (छात्रस्य प्रश्न:) अहं व्याकरणं पठेयम् वा ?
  • प्रार्थना - (कृपया) दद्याः मे इदं पुस्तकम्
  • निमन्त्रणम् - (विकल्प: नास्ति)
  • आमन्त्रणम् - श्व: मन्दिरं आगच्छेः
  • पद्धति: - वनं एतेन मार्गेण गच्छेः
  • आशीर्वाद: - यशस्वी भवेः !
  • **सम्भावना - अद्य वर्षा भवेत् **

२. आशी: - लिङ्-लकार:

(आशीर् नाम अप्राप्यस्य इच्छा | अद्य / इदानीम् अप्राप्य ( यस्य प्राप्ति: सुलभतया न शक्यते ) विषये अस्य लकार: प्रयुज्यते | वैदिकसंस्कृते अस्य उपयोग: प्राचुर्येण दृश्यते किन्तु लौकिकसंस्कृते अस्य उपयोग: नगण्य:|

- अहं राष्ट्रपति: भुयासम्
- मम शत्रु: म्रियात्

पप.

  • इत् इताम् इयु:
  • इ: इतम् इत
  • इयम् इव इम

आप.

  • ईत ईयाताम् ईरन्
  • ईथा: ईयाथाम् ईध्वम्
  • ईय ईवहि ईमहि

लृङ्-लकार: क्रियातिपत्ति:

यदि वर्षा अभविष्यत्, तर्हि सस्यानि अवर्धिष्यन्त | ( जर पाऊस पडला असता तर पिके (चांगली) वाढली असती )
यदि कृष्णः गीतां न अवदिष्यत्, तर्हि अर्जुनः न अयोत्स्यत |
यदि कैकयी वरं न अप्राक्षीत्, तर्हि रामः वनं न अगमिष्यत् । ( जर कैकेयीनी वर मागितला नसता तर राम वनवासात गेला नसता )
अहम् अध्ययनं अकरिष्यम् चेत् परीक्षाम् अपि अलेखिष्यम् ।
अभिमन्युः चक्रव्यूहं सम्यक् अज्ञास्यत् चेत् सः कौरवेभ्यः न पराजेष्यत ।

लेट्-लकार:

अयं लकार: केवलं वेदेषु प्रयुज्यते | लौकिकसंस्कृते अस्य उपयोग: न भवति , न करणीय: अपि |

वेदेषु अस्य उपयोग: भिन्नेषु अर्थेषु कृत: दृश्यते - वर्तमानकाल: , आज्ञा , विधि:, आदय:

नेता इन्द्रो नेषत् ।
विद्युत् पताति ।
प्रजापति: उदधिं च्यावयाति ।