समास
अनेकानां पदानां (केवल सुबन्तानां (नामपदानि, अव्ययानि, कृदन्ता:, तत्धितान्त: विशेषणानि, संख्या: )) एकत्रीकरणम् ( अनन्तरं वर्ण-एकत्रीकरणम् अपि) |
समास: विकल्पेन कर्तुं शक्यते किन्तु कृतं चेत् समस्तपदेषु सन्धि: ( वर्णैकत्रीकरणम् ) नित्यं करणीय: |
परस्परान्वय: अस्ति चेत् एव समास: |
समस्तपदे तथा विग्रहे अपि शब्दक्रम: महत्त्वपूर्ण: |
समास-प्रक्रिया
१ प्रातिपदिकानि अन्वेषय
२. विकल्पेन विशेषप्रक्रिया ( उदा.: महान् + राजन् = महाराज:, दीर्घा + माला = दीर्घमाला )
३. सन्धिं कुरु ( यथाशक्यम्)
४. लिङ्ग-वचन-विभक्ति निर्णय:
५. चरमे समासप्राप्ति:
समास-प्रभेदा:
१. अव्ययीभावः २. तत्पुरुषः ३. बहुव्रीहिः ४. द्वन्द्वः
१. अव्ययीभावः
- पूर्वपदम् सामान्यत: अव्ययम् अस्ति |
- समस्तपदम् अपि अव्ययम् निष्पद्यते |
निर् ( अभाव: )
- निर्मक्षिकम् = मक्षिकाणाम् अभावः
- निर्विघ्नम् = विघ्नानाम् अभावः
- निर्जनम् = जनानाम् अभाव:
यथा (अनतिक्रम्य / अनुसृत्य)
- यथाशक्ति = शक्तिम् अनतिक्रम्य / अनुसृत्य
- यथाबलम् = बलम् अनतिक्रम्य / अनुसृत्य
प्रति ( वीप्सा, आवृत्ति:)
- प्रतिगृहम् = गृहे गृहे प्रति
- प्रतिदिनम् = दिने दिने प्रति
- प्रत्येकम् = एकस्मिन् एकस्मिन् प्रति
स - सह (सहित/ युगपत्)
- सचक्रम् = चक्रेण सह
- सलीलम् = लीलया सहितम् / सह
- सचेतनम् = चेतनया सहितम्
- समलम् = मलेन सहितम्
अनु (पश्चात् / योग्यम्)
- रामस्य पश्चात् = अनुरामम्
- रूपस्य योग्यम् = अनुरूपम्
उप (समीपम्)
- कृष्णस्य समीपम् = उपकृष्णम्
- नद्या: समीपम् = उपनदि
- धेन्व: समीपम् = उपधेनु
- राज्ञ: समीपम् = उपराजम्
अधि - (अधिकरणम्)
- कवौ = अधिकवि
- राज्ये = अधिराज्यम्
२. कर्मधारय:
- विशेषणम् + विशेष्यम् मिलित्वा अयं समास: भवति |
- त्रिषु लिङ्गेषु समस्तपदं शक्यम् |
- केवलम् उपान्त्य शब्दस्य पुंलिङ्ग प्रातिपदिकम् अन्वेषय | (सूचना: इदं परिवर्तनं केवलं कर्मधारये वा बहुव्रीहौ एव भवति |)
- पश्चात् सन्धिं कृत्वा समस्तपदं निष्पद्यस्व |
- दीर्घा + माला = दीर्घमाला
- नवमी + कक्ष्या = नवमकक्ष्या
- उन्नत: + बालक: = उन्नतबालक:
- भयङ्करं + वनम् = भयङ्करवनम्
- बुद्धिमती + छात्रा = बुद्धिमच्छात्रा बुद्धिमती -> बुद्धिमत् ( पुं. प्रातिपदिकं) + छात्रा
- युवति: + नायिका = युवनायिका युवति -> युवन् ( पुं. प्रातिपदिकं) -> (न् लोप:) -> युव + नायिका
- मृद्वी + बालिका = मृदुबालिका मृद्वी -> मृदु ( पुं. प्रातिपदिकं)
- तन्वी + लता = तनुलता
- **नवमी + दशमी + कक्ष्या = नवमीदशमकक्ष्या**
अपवाद: / विशेषम्
महत् + भारतम् = महाभारतम् 'महत्' शब्दे सर्वदा 'आ' त्वम् भवति त्रिषु लिङ्गेषु महती + देवी = महादेवी महान् + राजन् = महाराज: उपरोक्तनियम: + राजन् -> राज (न् लोप:)
अपवाद: / विशेषम्
यदि स्त्रीलिङ्गशब्द: संज्ञारूपेण प्रयुक्त: अस्ति तर्हि इदं परिवर्तनं न भवति | उदा.: प्रथमा + विभक्ति = प्रथमाविभक्ति , चतुर्दशी + तिथि: = चतुर्दशीतिथि:
अत्र नव ९ प्रभेदा: सन्ति |
२.१ विशेषण-पूर्वपद
उपरि दत्तानि उदाहरणानि प्राय: अस्मात् प्रभेदात् |
२.२ विशेषण-उत्तरपद
केवल अल्पानि उदाहरणानि सन्ति | प्रशंसा वा निन्दा निर्देशार्थम् उपयुज्यते |
वैयाकरण: खसूचि: = वैयाकरणखसूचि:
अत्र खसूचि: ( ख = आकाशम्) इति वैयाकरणस्य विशेषणम् | वैयाकरण: किमपि न जानाति इति आशय: |
२.३ विशेषण-उभयपद
केवल कानिचन उदाहरणानि सन्ति |
कृतम् अकृतम् = कृताकृतम्
अत्र कार्यं कृतं किन्तु फलं (ध्येयं) न साधितं इति आशय:
शीतोष्णम्
२.४ उपमान-उपमेय उपमानम् पूर्वपदम्
- कुसुमं इव कोमलम् = कुसुमकोमलम्
- शैला: इव उन्नता: = शैलोन्नता:
- घन: इव श्यामम् = घनश्यामम् मित्रम्
२.५ उपमान-उपमेय उपमानम् उत्तरपदम्
- चरणं कमलं इव = चरणकमलम्
- नर: व्याघ्र: इव = नरव्याघ्र:
२.६ सम्भावना पूर्वपदम् (संज्ञा) + जाति:
- गङ्गा इति नदी = गङ्गानदी
- आम्र: इति वृक्ष: = आम्रवृक्ष:
२.७ अवधारणा पूर्वपद + विशेष्यम्
- विद्या एव धनम् = विद्याधनम्
- गुरु: एव देव: = गुरुदेव:
२.८ मध्यमपद लोपी
अर्थम् वा प्रसङ्गम् आश्रित्य पूर्व - उत्तरपदयो: मध्ये सम्बन्धकल्पनाय मध्यपदस्य अध्याहार: करणीय:
शाक (प्रिय:) पार्थिव: (राजा) = शाकपार्थिव:
द्वि (गुणितं ) शतम् = द्विशतम् (२००)
पञ्चाधिका विंशति: = पञ्चविंशति: ( २५ )
परशुप्रहरण: (परशु: प्रहरणम् (आयुधम्) यस्य स:) राम: = परशुराम:
२.९ मयूरव्यंसकादय:
यानि समस्तपदानि अन्येषु केषु अपि तत्पुरुषसमासेषु न भवितुम् अर्हन्ति , ते सर्वे अस्य प्रभेदे योजयन्ति | अस्य प्रभेदे विशिष्ट: नियम: नास्ति |
अन्य: देश: = देशान्तरम्
अन्या गति: = गत्यन्तरम्
३. तत्पुरुष:
३.१ नञ्प्रभृतय:
नञ्
न-कारबोधक-शब्दनिर्मित्यार्थे उपयुज्यते | यदि पदप्रथमाक्षरं स्वरं (अजादि) अस्ति चेत् "अन्" इति युज्यते अन्यथा (हलादि) व्यञ्जनम् अस्ति चेत् "अ" |
हलादि
- अ धर्म: = अधर्म:
- अ विद्या = अविद्या
अजादि
- अन् अर्थ: = अनर्थ:
- अन् इच्छा = अनिच्छा
कु
कु + सुबन्त: इति मिलित्वा समस्तपदनिर्मिति: भवति | यदि पदप्रथमाक्षरं स्वरं (अजादि) अस्ति चेत् "कत्" इति युज्यते अन्यथा (हलादि) व्यञ्जनम् अस्ति चेत् "कु" |
कुत्सित: पुरुष: = कुपुरुष:
कुत्सिता बुद्धि: = कुबुद्धि:
कुत्सितम् अन्नम् = कदन्नम्
कुत्सित: उपदेश: = कदुपदेश:
विशेष: / अपवाद:
कुपुरुष: / कापुरुष:
कद्रथ: // रथ:
कवोष्णम् // किंचित् उष्णम्
प्रादि
प्रादय: (२२ उपसर्गा:) + सुबन्त: इति मिलित्वा समस्तपदनिर्मिति: भवति | अस्मिन् समासे पूर्वपदस्य लिङ्गम्, वचनम् आचरणीयम् |
- प्रगतम् तन्त्रज्ञानम् = प्रतन्त्रज्ञानम्
- शोभनम् भाषितम् = सुभाषितम्
- विगता अर्थात् = व्यर्था
- अतिक्रान्ता देवम् = अतिदेवी
- अभिगत: मुखम् = अभिमुख:
गति
अत्र गति: पूर्वपदम् अस्ति + सुबन्तम् मिलित्वा समस्तपदनिर्मिति: भवति | गति: इति व्याकरणसंज्ञा | गतिसमासस्य नैका: प्रभेदा: सन्ति |
उदाहरणरूपेण : च्वि-प्रत्यायान्त शब्दै: सह
- अशुक्लं शुक्लं कृत्वा = शुक्लीकृत्य
- अस्वच्छम् स्वच्छम् कृतम् = स्वच्छीकृतम्
- अमृदुं मृदुं कृत्वा = मृदूकृत्य
उपपदम् (नित्य समास:)
अत्र उपपदम् पूर्वपदम् अस्ति + कृदन्त: (विग्रहवाक्ये तिङन्त:) मिलित्वा समस्तपदनिर्मिति: भवति | उपपदम् इति व्याकरणसंज्ञा |
कुम्भं करोति = कुम्भकार:
सूत्रम् धरति = सूत्रधार: /
पङ्के जायते इति = पङ्कजम् (कमलम्)
जलं ददाति इति = जलद: / जलदा / जलदम्
सर्वं जानाति = सर्वज्ञ: / सर्वज्ञा / सर्वज्ञम्