धर्म: (जीवनस्य परमोद्देश: , धर्म: सर्वतोपरि )

धर्म: नाम किम् ?

कर्तव्यम् | धारयति इति धर्म: | धर्म: नाम आधार:, आचार-विचारयो: नीति:, नित्यकर्म-उपदेश: | य: ददाति आनन्दं धन्यत्वं स: धर्म: |

धर्म-प्रभेदा:

वर्णधर्म , आश्रमधर्म, नैमित्तिकधर्म , साधारणधर्म , राजधर्म इत्यादिन: प्रभेदा: |

धर्मं कथं सिध्यति ? कार्यात् (कार्याणि कृत्वा)

विशेष-अंशा:

धर्मो रक्षति रक्षित: धर्म: सर्वतोपरि

य: धर्मं सेवते / अङ्गीकरोति, धर्म: तं रक्षति |

आदौ धर्म: , पश्चात् राष्ट्रम् |

हिन्दु: इति एव धर्मः , अन्ये सर्वे सम्प्रदायाः |

का: विशेषता:
- सनातनः (व्यवहार्यः) एव शाश्वतम् ।
- कर्तव्यम्, श्रेयस्करणीयम्
- विवेकत्वम् , सनातनः (व्यवहार्यः) एव शाश्वतम् ।
- संस्करणम् नाम प्रकृतित: उत्तमरुपे परिवर्तनम् ( सस्यत: ओदनम्, मानवत: सुपुरुष:)  शिष्टाचार: , आर्यवर्तनम्
- वसुधैव कुटुम्बकम् , सर्वसमावेशक: , आदरभाव: ( सजीवेभ्य: - मातापितरौ , आप्ता:, शिक्षका:, सहाय्यकारा: , प्राणीमात्र: तथा निर्जीवेभ्य: प्रति अपि निसर्ग: सूर्य: , भूमि:, जलम् , अन्नम् , वर्षा, नदी इ.)
- ज्ञानम् , प्रकाशः, विकास:
- सर्वदा सर्वथा गुणवत्ता / उत्कृष्टत्वम् न तु संख्या

राष्ट्रम् भारतम्

आधुनिकी व्याख्या भारतम् = भायां (प्रकाशे (ज्ञाने)) रतम् इति भारतम् ।

प्राचीना व्याख्या

स्त्रोत: नित्यानन्द मिश्रा

भरतस्य इदम् , वा भरतानाम् (भरतकुलोत्पन्न: , भरतवंशीन:) इदम् इति |

भरत: = भरति , बिभर्ति वा पुष्णाति इति |

आचार विशेषा:

बाल्ये
------------
विद्या, ज्ञानम् , अध्ययनम् -
नियमबद्धम्
गुणग्राहकता
निरीक्षणम्
संयमः ( अति सर्वत्र वर्जयेत् )
शिथिलता , विनय: ( स्वभाव )

बाल्यात् परम्
------------
उपरि उक्ता: +
विवेकः , तर्कः , सारग्रहणम्
व्यावहारिकता  , चतुरता
अवधानम् , अवगमनम् , निरीक्षणम् (शत्रुबोधः)

षोडश संस्कारा:

१४ चतुर्दश संस्कार: विवाह: - सङ्केत स्थलम् (fb)

अन्ये अंशा:

अधोनिर्दिष्टा: उपदेशा: सर्वदा सर्वथा धर्मं अनुसृत्य एव अनुसरणीया: !!

  • बहुजनहिताय बहुजनसुखाय |

यदि त्याग: आवश्यक: अस्ति चेत्

  • कुलस्य अर्थे एकं त्यजेत् , ग्रामस्य अर्थे कुलं त्यजेत् | जनपदस्य अर्थे ग्रामं त्यजेत् धर्मार्थे (आत्मार्थे - मोक्षार्थे) हि पृथिवीं त्यजेत् ||

  • काले मृदुः यः भवति काले भवति दारुणः । स साध्नोति परं श्रेयः विघ्नान् अपि अधतिष्ठति ||

  • किमपि भवितुं अर्हति, सामान्यतः यथाकालं तद् भवेत् ।

  • भूमौ हि जायते सर्वं भूमौ सर्वं प्रणश्यति । भूमिः प्रतिष्ठा भूतानां भूमिरेव परायणम् ॥