सनातन वा वैदिक वा हिन्दु - धर्म:
सनातन नाम नित्य:, निरन्तर: |
हिन्दुः क: वा हिन्दुधर्मम् अनुसरति नाम किम् ?
अस्माकं धर्मस्य अधोनिर्दिष्टानि चत्वारि प्रमुखसूत्राणि | यस्य एतेषु श्रद्धा, विश्वास: अस्ति, तथा च प्रतिदिनं तान् अनुसरति, स: हिन्दु: |
१. आस्तिक:
अस्ति परलोक: इति मतिर्यस्य | सा शक्ति: विश्वचक्रं चालयति | य: मन्यते ईश्वरं, स: आस्तिक: | अत्र ईश्वरं नाम किमपि उपास्य ( शक्ति: वा चैतन्यम् वा निसर्ग: वा)
२. पुनर्जन्म
य: व्यक्ति: पुनर्जन्म अस्ति इत्यस्मिन् श्रद्धा धरति | महाप्रयासेन मनुष्यजन्म लब्ध:, अत: तस्य सुयोजनं (आत्मोन्नति, परोपकारम्) कृत्वा मोक्षं प्रति गन्तव्यम् |
३. कर्मफलम्
प्रत्येकं कर्मण: फलम् अस्ति सुफलं वा कुफलं | अत: फलभोगार्थं पुन: जन्म, देहधारणा आवश्यकी | यदा कर्माणि तथा च फलानि शून्यं भवति तदा मोक्षप्राप्ति: शक्या इत्यत्र विचार: |
४. अद्वैतम्
ईश्वर: सर्वव्यापी, विराट:; अहं, त्वं, सर्वे (चर:, अचर:) प्रत्येकं ईश्वरस्य एव अंश: | अत: अस्माकं धर्मे सजीवा: - मातापितरौ , आप्ता:, शिक्षका:, प्राणीमात्रा: आदि तथा च निर्जीवा: प्रति अपि निसर्ग: सूर्य: , भूमि:, जलम् , अन्नम् , वर्षा, नदी इ.) घटका: उपास्या:
वसुधा एव कुटुम्बकम्
धर्मस्य: उद्घोषा:
चतुर: वेदा: ऋग्वेद:, यजुर्वेद:, सामवेद:, अथर्ववेद: | प्रत्येकं उद्घोष: वेदेभ्य: गृहीत: |
१. ऋग्वेदस्य उद्घोष: - "प्रज्ञानं ब्रह्म" परमज्ञानं एव ब्रह्म इति
ईश्वर: निर्गुण:, निराकार: | स: एव सर्वव्यापी, सर्वज्ञ: अस्ति | ईश्वर: एव ब्रह्म परमसत्यम् |
२. यजुर्वेदस्य उद्घोष: - "अहं ब्रह्मास्मि"
उपरोक्तचतुर्थबिन्दु: 'अद्वैतम्' इति हिन्दुधर्मस्य विचार: स्पष्टीकरोति, ईश्वर: सर्वव्यापी किन्तु अन्ये सर्वे ईश्वरस्य तु अंश:| तस्मात् वयं 'अहं ब्रह्मास्मि' इति वक्तुं शक्यते | यथा जलबिन्दु: सागरम् संगच्छति, तथा वयं सर्वे अंशा: अपि विराटरूपं प्रति गन्तव्यम् इति विचार: |
३. अथर्ववेदस्य उद्घोष: - "अयं आत्मा ब्रह्म"
अस्मिन् उद्घोषे इदं स्पष्टीकृतं अस्ति यद् यत्र यत्र अहं इति उल्लेख: कृत: अस्ति तत्र अहं नाम आत्मा न तु शरीरम् | आत्मा अमर: निर्गुण:, निराकार: अविनाशी अंश: च अस्ति तथा शरीरस्य सर्वे गुणा: विपरीता: इति प्रतिपाद्यते |
४. सामवेदस्य उद्घोष: - "तत् त्वम् असि"
अस्मिन् बिन्दौ 'त्वं ईश्वरस्य एव अंश:, तथा चरमे अंशस्य विराटरूपे संयोग: भवति' इति प्रतिपाद्यते |
विशेष:
चार्वाक तत्वज्ञानं हिन्दुधर्मस्य हि भाग: किन्तु तेषां विचार: नैकान् उपरोक्तबिन्दुन् (वेदान्) न मन्यते | बौद्ध धर्म: अपि वेदान् न मन्यते |